________________
2ी कुक्ल काव्य और परिदः १७
स्थाजविस्तार: असमीक्ष्य बुधः क्षेत्रं न कार्यं नापि विग्रहम् । विदधाति तथा नैव क्षुद्रकं मन्यते रिपुम् ।। १।।
आस्तां नरो महाशूरो रणकर्मणि कोविदः ।
दुर्गाश्रयस्तु तस्यापि नूनमावश्यको मतः ।।२।। योग्यस्थानं विनिश्चित्य यो युध्यति सुयुक्तितः । दुर्बलोऽपि बलिष्ठारि जयति ध्रुवमेव सः ।।३।।
दृढभूमिं समाश्रित्य ये युध्यन्ति सुशस्त्रिणः ।
व्यर्था भवन्ति संकल्पाः सर्वेषामेव तद्विषाम् ।।४।। मकरो हि पयोराशौ पंचास्य इव भीतिदः । जलाबहिः स एवास्ति क्रीडावस्तु स्ववैरिणाम् ।।५।।
रथोहि दृढचक्रोऽपि समुद्रे नाभिगच्छति ।
समुद्रयायी पोतश्च स्थलगामी न जायते ।।६।। कार्य पूर्व विनिर्धार्य सुक्षेत्रे यस्य विक्रमः । तस्यारिविजये नास्ति परापेक्षा महीपतेः ।।७।।
दृढसैन्यविहीनोऽपि सुस्थानं प्राप्नुयाद् यदि ।
विफलास्तर्हि बोद्धव्या उपायास्तस्य वैरिणाम् ।।८।। असत्यपि सुरक्षायाः साधनेऽनादिवस्तुनि ।। स्वदेशे हि जनाः सर्वे दुर्जय्याः खलु वैरिणाम् ।।६।।
निर्निमेषं रणे येन प्रहाराः कुन्तधारिणाम् । सोढाः स एव सानाह्यः पंके क्रोष्ट्रा विजीयते ।।१०।।
-
51
60