________________
ज, कुबल काव्य र परिवछैदः ४१
अवसरसमीक्षा जयत्यवसर प्राप्य दिवोलूकं हि वायसः । एवंचावसरो हेतुर्विजये भूपतेरपि ।। १।।
समयं वीक्ष्य कार्याणां करणं मन्यते बुधः ।
प्रेमरज्वा स्वरोपायप्रियो कि बन्धनम् ।।२।। क्षेत्रं साहाय्यसम्पत्तिं पूर्व वीक्ष्य करोति यः । कार्य साधनविज्ञातुस्तस्यास्ति किमसम्भवम् ।।३।।
यदि स्ववसरं वेत्सि साधनानि तथैव च ।
शक्नोषि निजवीर्येण विजेतुं जगतीतलम् ।।४।। कार्यकालं प्रतीक्षन्ते जोषं हि जयरागिणः । न क्षुभ्यन्ति कदाचित्ते नाप्युत्तापविधायिनः ।।५।।
संघातकरणात् पूर्वं यथा मेषोऽपसर्पति ।
तथाऽकर्मण्यता लोके कर्मण्यस्यापि दृश्यते ।।६।। अमर्षस्य प्रकाशो हि त्वरितं नैव धीमताम् । तं गुप्तं हृदये कृत्वा तत्कालं स प्रतीक्षते ।।७।।
विनेव्यो रिपुस्तावद् यावत्तस्य शुभोदयः ।
विनिपातो यदा तस्य सुखोच्छेद्यस्तदा हि सः ।।८।। अमोघकालं संप्राप्य विचिकित्सां विहाय च । क्षिप्रमेव विधातव्यं कार्य चेदपि दुष्करम् ।।६।।
पूर्व निश्चेष्टवभापि वामे काले विचक्षणः । अनुकूले पुनः काले वकवद वाधते रिपुम् ।।१०।।
-
-