SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ कुरल काव्य परिच्छेदः ४८ शक्तेर्विमर्शः पूर्वं संचिन्त्य विघ्नौघान् शक्तिं स्वस्य परस्य च । सधीचस्तद्बलंचापि दृष्ट्वा कुर्वीत वांछितम् ।। १ ।। यथायोग्यकृताभ्यासः स्वशक्तेः पूर्णवेदकः । अनुगामी च यो बुद्धेस्तस्य यानं जयोन्मुखम् || २ || स्वं शक्तावधिकम्मन्या बभूवुर्बहवो नृपाः । स्वशक्तेरधिकं कार्य ते प्रारभ्य क्षयं गताः ॥३॥ अहंकारविमूढात्मा ज्ञानशून्यो बलाबले । शान्तिजीवी च यो नास्ति त्रय एते विनाशिनः || ४ || बहूनामप्यसाराणां समवायो हि दुर्जयः । केकिपत्रैर्यतः प्राज्ये रथभंगो विधीयते ||५|| शक्तिं समीक्ष्य भावानां क्रियां कुर्वीत पण्डितः 1 अधियानं हि नाशाय तरोः शिखरवर्तिनः ।।६।। विभवं स्वस्य संवीक्ष्य कर्तव्यमतिसर्जनम् । अनुरूपं बुधैरेष योगक्षेमविधिः शुभः ||७|| संकीर्णापि न चिन्त्यास्ति लोके पूरकनालिका । व्ययनाली न विस्तीर्णा यद्यस्ति गृहिणी गृहे ||८|| यस्यायव्यययोर्नास्ति लेखो नापि विचारणा । कार्यात्पूर्वं स्वशक्तेश्च तन्नामापि न शिष्यते || ६ || यः स्ववित्तमनालोच्य व्ययते मुक्तहस्तकः । अविलम्ब क्षयं याति विपुलं तस्य वैभवम् ||१०|| 48
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy