________________
जा कुबन काळ्य पर
परिच्छेदः ४७
समीक्ष्यकारिता व्ययः कियानू कियाँल्लाभो हानि का भविष्यति । इतिपूर्वं विचार्यैव कार्यं कुर्वीत थीधनः ।।१।।
मंत्रज्ञैर्मत्रिभिः सार्धं मंत्रयित्वैव यो नृपः ।।
विदधाति स्वकार्याणि तस्यास्ति किमसम्भवम् ।।२।। सन्त्येवं हि बयांगा य पूर्वं लाभदर्शकाः । समूलघातका अन्त लेषु हस्तो न धीमताम् ।।३।।
नैवेच्छति निजात्मानं यो यातुं परिहास्यताम् ।
नासमीक्ष्य क्वचित् किंचिद् विधत्तेऽसौ विचारवान् ।।४।। अयनेषु च सर्वेषु व्यूहादिस्थितिसूचिकाम् । युद्धसज्जां बिना युद्धं राज्ये वैर्यभिषेचनम् ।।५।।
अकर्मणः समाचारानु नूनं नश्यति मानवः ।
कर्मणश्च परित्यागात् सत्यं नश्यति मानवः ।।६।। नाविचार्य क्वचित् किंचिद् विधातव्यं मनीषिणा । पूर्वं प्रारभ्य पश्चाच्च शोचन्ति हतबुद्धयः ।।७।।
सन्मार्ग यः समुत्सृज्य स्वकार्याणि चिकीर्षति ।
तस्य यत्ना ध्रुवं मोघाः साहाय्यं प्राप्य भूर्यपि ।।८।। उपकारोऽपि कर्तव्यः स्वभावं वीक्ष्य देहिनः । अन्यथा स्यात् प्रमादेन यातनैव विधायिनः ।।६।।
कुरु तान्येव कार्याणि यान्यनिन्द्यानि सर्वथा । निन्धकार्याद् यतः प्राणी प्रतिष्ठाभंगमानुप्रयात् ।। १०।।