SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ - कुरष काव्य पर परिच्छेदः ४E कुसंगपरित्यागः भद्रो बिभेति दुःसंगात परः संगच्छते तथा । अभद्रेण समं नित्यं यथा स्यात् तत्कुटुम्बभाक् ||१|| यथाभूमौ वहत्यम्मस्तत्तथा परिवर्तते । यादृशी संगतिस्तस्य पुरुषोऽपि तथाविधः ।।२।। बुद्धेर्यद्यपि सम्बन्धो मस्तकादेव वर्तते । यशसः किन्तु सम्बन्धी गोष्टया उपरि निर्भरः ।।३।। ज्ञायते हृदये वासः स्वभावस्य सदा जनैः । परं तस्य निवासस्तु तद्गोष्ठयां यत्र स स्वयम् ।।४।। मनसः कर्मणश्चापि शुद्धेर्मूलं सुसंगतिः । तद्विशुद्धौ यतः सत्यां संशुद्धिर्जायते तयोः ।।५।। पवित्रं हृदयं यस्य संततिस्तस्य पुण्यभाकू । __ यावज्जीवमसौ भद्रः समृद्धः सन् सुखायते ।।६।। मनःशुद्धिर्मनुष्यस्य निधानं वसुधातले । सत्संगश्च ददातीह गौरवं गुणवत्तरम् ।।७।। आकरा गुणरत्नानां स्वयं सन्ति मनीषिणः । सत्संगति तथाप्येते मन्यन्ते शक्तिमन्दिरम् ।।८।। धों गमयति स्वर्ग पुण्यात्मानं विकिल्विषम् । धर्मप्राप्त्यै च सद्वृत्ते नियुड्.क्ते सा सुसंगतिः ।।६।। सत्संगादपरो नास्ति नजस्य परमः सखा । दुःसंगाच्च परो नास्ति हानिकर्ता महीतले ।। १० । RAM
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy