SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ जी, कुबल काव्य पर ___ परिच्छेदः ४५ योग्यपुरुषाणां मैत्री धर्ममाचरतां येषां वृद्धत्वं वयसा समम् । नित्यं तेषां सुवात्सल्यं प्रतिपत्त्या समजयः ।।१।। यदस्ति भावि वा यच्च दुःखं तद् यो व्यपोहितुम् ।। शक्तस्तेन समं मैत्री कुरु सोत्साहचेतसा ।।२।। सन्मानवैः समं सख्यं प्राप्तं यस्य सुदैवतः । असंशयं हि सौभाग्यं वर्तते तस्य धीमतः ।।३।। गुणाधिकस्य सौहार्द लब्धं येन सुभक्तितः । प्राप्ता तेनेदृशी शक्तिस्तुच्छा यत्पुरतोऽपराः ।।४।। लोकशासकभूपानां सचिवा दृष्टिसन्निभाः । अतस्तेषां नियोगोऽपि विधातव्यो यथागुणम् ।।५।। सत्पुरुषैः समं मैत्री नित्यं यस्य विराजते । अपकारं हि तत्साधोः कर्तुं शक्ता न वैरिणः ।।६।। अपि भर्त्सयितुं शक्तैः सार्थं सख्यस्य गौरवम् ।। यस्यास्ति तस्य के सन्ति भूतले हानिकारकाः ।।७।। यस्यापेक्षा न साहाय्ये तस्य यः साधु शास्ति तम् । असद्भावेऽपि शत्रूणां स च भूपः क्षयोन्मुखः ।।८।। यथा लाभो न तस्यास्ति नीवी यस्य न विद्यते । व्यवस्थापि तथा नास्ति बुद्धिं बुद्धिमतां विना ।।६।। विरोधो बहुभिः सार्धं मौख्यं सूचयते यथा । तथा सख्यविधातोऽपि सद्भिः साकं ततोऽधिकम् ।। १०।। www245
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy