________________
कुरल काव्य
परिच्छेदः ४४ दोषनिवृत्तिः
क्रोधदप हतौ यस्य विषये चास्तकामनाः । अपूर्वमेव तस्यास्ति सौभाग्यद्योति गौरवम् ||१||
प्रभुत्वजनितो दर्पो गृध्नुता विषयान्थता । भूपे दोषा भवन्त्येते प्रायेणैव विशेषतः ||२|| शुभ्रज्योत्स्नासमा कीर्तिः सुप्रिया यस्य विद्यते । स्वदोषं सर्षपाकारं तालतुल्यं स मन्यते || ३ ||
दोषाणं त्वं विनाशाय नित्यं भव समुद्यतः । अन्यथा सर्वनाशं ते विधास्यन्तीति निश्चयः || ४ ||
भाविदुः खफलं भोक्तुं यः पूर्वं नैव सज्जितः । स तथा निधनं याति यथाग्नौ तृणसंहतिः || ५ ||
परशुद्धिविधेः पूर्वं यः स्वदोषान् विशुध्यति । के तं दोषां स्पृशन्तीह भूपालं योगिसन्निभम् || ६ ||
हा धिक् तं कृपणं मर्त्यं व्ययो यस्य न राजते । व्ययस्थानेऽपि तस्यान्ते विनाशो ननु निश्चितः ॥ ७॥
निन्द्यत्वेन समाः सर्वे दुर्गुणाः खलु भूतले । परं पत्रापि कार्पण्यं विभिन्नं परिगण्यते ॥८ सहसैव प्रसादोऽपि नृणां दोषाय कल्पते । लाभेन वर्जितं कार्यं हातव्यं तच्च दूरतः ||६||
स्वाभिलाषास्तथा गोप्या यथा वेद्या निजारिभिः । न भवेयुः कथचेत् ता निष्फलाः स्युस्ततो द्विषः ||१०||
44