SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ -जा कुशल काव्य पर पाटिलेदः ४३ आकस्मिके विपच्चक्रे बुद्धिः सन्त्राहसन्निभा । अजय्यः प्रतिभादुर्गः समवेत्यापि शत्रुभिः ।।१।। सुबुद्ध्या करणग्रामो विषयेभ्यो निवर्तते । अशुभाच्च शुभे मागें नियु.क्ते सा यथाविधि ।।२।। अस्ति बुद्धेरियत्कार्यं यत्सत्यासत्यनिर्णयः । तद्वक्ताऽस्तु पुनः कोऽपि सुप्रियो दुष्प्रियोऽथवा ।।३।। मतिमान भाषते नित्यं सुबोध्यामेव भारतीम् । परेषां वचसां सारं स्वयंचापि स बुध्यति ।।४।। सर्वसौहार्दवृत्तित्वात् सवधियः सुधीः सदा । यस्यैकरूपता सख्ये चित्ते चातिव्यवस्थितिः ।।५।। लोकरीत्यनुसारेण व्यवहारोऽपि सर्वदा । आख्याति बुद्धिसद्भावमिति लोकज्ञभाषणम् ।।६।। बुद्धिमान बुद्धिसामर्थ्यात् किमुदके भविष्यति । इति पूर्व स्वयं वेत्ति न चैवं बुद्धिवर्जितः ।।७।। भीतिस्थाने हठादेव प्रवृत्तिर्बुद्रिहीनता । भयहेतोर्विभीतिश्च प्रबुद्धेरेव सूचिका ।।८।। सर्वेषामेव कार्याणां कृते यः पूर्वसज्जितः ।। तस्य कम्पकदुःखाना नाघातो दूरदर्शिनः ।।६।। अखिलं तस्य कल्याणं यस्यास्ति बुद्धिवैभवम् । यस्य नास्ति स्वयं प्रज्ञा तस्य किंचिन्न विद्यते ।। १०।। (43 +---.-..--
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy