SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ कुमल काव्य र परिच्छेदः ४७ शिक्षाया अवहेलना अध्यास्ते संसद: पीटं पूर्णशिक्षामुपेक्ष्य यः । शारीपर्ट विना सोऽयमक्षैर्दीव्यति धूर्तथीः ।।१।। अनभ्यस्य श्रुतं यो वा काड्.क्षते वारिग्मगौरवम् । .. युवसु ख्यातिसाकाङ्.क्षानुरोजा रमणीव सः ।।२।। सुशिक्षितानां पुरो धैर्यान् मूर्खश्चेन्मौनमास्थितः । गण्यते शिक्षितो लोकैर्विदुषां सोऽपि योगतः ।।३।। कियानपि भवेद् धीमान् शिक्षाशून्यो हि मानवः । आद्रियते परं नैव विद्वद्भिस्तस्य मंत्रणा ।।४।। अवहेलितशिक्षो यः पण्डितं मन्यते निजम् । सुस्पष्टं सोऽपि लज्जेत यदा भाषेत संसदि ।।५।। अशिक्षितजनस्याहो दशोषरमहीनिभा । स जीवत्यतो नास्ति वार्ता तद्विषयेऽपरा ।।६।। विदुषां वैभवहीनत्वं मनसे नैव रोचते । आढयता किन्तु मूढानामप्रियास्ति ततोऽधिका ।।७।। भव्यानि सूक्ष्मतत्त्वानि यद्बुद्धि वगाहते । तद्देहस्य सुसीन्दर्यं मृण्मूर्तेरिव मण्डनम् ।।८।। उच्चवंशप्रसूतोऽपि लघुतामेत्यशिक्षितः । विद्यावृद्धः कुवंश्योऽपि लभते किन्तु गौरवम् ।।६।। पशुभ्योऽयं नरो यावान् साधुभवति भूतले । अशिक्षितेभ्यो वरस्तावान् शिक्षितोऽप्यस्ति विश्रुतः ।। १०।। -- ----- 41 ...----
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy