SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ कुरल काव्य परिच्छेदः ४० शिक्षा अधिगम्यं किं गज्ज्ञानं सायस्त्येन तदर्जयेत् । आचरेच्च तथा नित्यं विद्याप्राप्तेरनन्तरम् 119|| द्वे चक्षुषी मनुष्याणां जातेजीवित जागृते । एकं वर्णसमाम्नायो द्वितीयंचांकसंग्रहः ||२|| यः शिक्षितः स एवास्ति चक्षुष्मानिह भूतले । अन्येषान्तु मुखे नूनमस्ति गर्तद्वयाकृतिः ||३|| सहैव नयते मोदं विद्वान् यत्रापि गच्छति । प्रमोदोऽपि ततो याति यतश्चायं निवर्तते ||४॥ न्यक्कृतोऽपि भवंशिष्टेर्धनिकैरिव भिक्षुकः । प्रयत्नेन पठेद् विद्यां ह्यधमा ज्ञानदूरगाः ।।५।। तावदेव जलं भूरि यावत् स्रोतो निखन्यते । एवंच तावती विद्या यावती सा हि पठ्यते ॥६॥ सर्वत्र विदुषां गेहं स्वदेशश्च महीतलम् । यावज्जीवं पुनर्मर्त्याः कथं न ज्ञानरागिणः ||७|| एकजन्मनि यज्ज्ञानं गृहीतं देहधारिणा । उन्नतं तत् करोतीह जीवमागामिजन्मसु ॥८॥ इयं विद्या यथा मेऽस्ति पुष्कलानन्ददायिनी । तथैवेयं परस्यापि सुप्रियातो बुधस्य सा ||६|| मनुष्याणां कृते ज्ञानमविनाशी महानिधिः । दोषत्रुटिविहीनंच यस्मादन्यन्त्र वैभवम् ।।१०।। 40
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy