SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ कुरल काव्य परिच्छेदः 30 राजा सेना मंत्री सुहृत् कोषो दुर्गेः साकं जनाश्रयः । षडेते सन्ति राजसिंह स भूतले 15 साहसं बुद्धिरौदार्यं कार्यशक्तेश्च पूर्णता । आवश्यका इमे सर्वे गुणाः शासनकारिणः || २ || शासनाय समुत्पन्नान् न त्यजन्ति गुणास्त्रयः । विद्या निर्णयसामर्थ्यं नित्यंचापि परीक्षणम् ||३|| नूनं स एव राजास्ति यो न धर्मात् प्रमाद्यति अधर्मघ्नः सदाचारी वीरः सम्मानरक्षकः ॥४।। राज्यसाधनविस्फूर्तिर्वृद्धिश्चापि कथं भवेत् । कथं कोषस्य पूर्णत्वं कथमायव्ययौ च मे ।। धनस्य परिरक्षा च कथं मे वर्ततेऽधुना । एतत्सर्वं हि विज्ञेयं राज्ञा स्वहितकांक्षिणा । । ५ ।। युग्मम् प्रजानां खलु सर्वासां सुलभं यस्य दर्शनम् । नाप्युद्वेगकरं वाक्यं तस्य राज्यं समुन्नतम् || ६ || औचित्येन समं दानं प्रेमयुक्तंच शासनम् । एतद्वयं हि यस्यास्ति स भूपो लोकविश्रुतः ॥ ७ ॥ रक्षणे नित्यमुयुक्तो निष्पक्षो न्यायकर्मणि । धन्य एवंविधो भूपः स नूनं भुवि देवता || ८ || कर्णयोरप्रियाञ् शब्दाज् श्रोतुं शक्नोति यो नृपः । तस्यच्छन्त्रतलेऽजस्रं सकलेयं वसुन्धरा ।।६।। उदारी न्यायसम्पन्नः प्रजासेवी दयारतः । य एवं वर्तते भूपो ज्योतिष्मान् स हि राजसु ||१०| 39
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy