SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ज, कुवरल काव्य र= परिचलेदः 36 भवितव्यता नरो दृढप्रतिज्ञः स्याद् भाग्यलक्ष्मीप्रसादतः 1 स एव याति शैथिल्यं हतभागस्य दोषतः ।।१।। शक्तेर्हासो मनुष्याणां दुर्भाग्यात्सम्प्रजायते । बुद्धेः स्फूर्तिस्तु लोकानां जागृते पुण्यकर्मणि ।।२।। कोऽर्थो ज्ञानेन जातेन चातुर्येणापि को गुणः । अन्तरात्मा यतो नित्यं सर्वोपरि प्रभाववान् ।।३।। द्वे वस्तुनीह संसारे विभिन्ने सर्वथा पृथक् । ___ एकं तत्र धनाढ्यत्वं द्वितीयं साधुशीलता ।।४।। शुभोऽप्यशुभतां याति सति भाग्ये पराड्.मुखे । अनुकूले सति स्वस्मिन्त्रशुभोऽपि शुभायते ।।५।। यत्नेनापि न तद् रक्ष्यं भाग्यं नैव यदिच्छति । भाग्येन रक्षितं वस्तु प्रक्षिप्तं नापि नश्यति ।।६।। महाशासकदैवस्य शासनातिक्रमेण वै । उपभोक्तुं न शक्तोऽस्ति कोट्यधीशो वराटिकाम् ।।७।। निर्धना अपि जायन्ते कदाचित् त्यागबुद्धयः । भाविदुःखकृते दैवं परं तत्रास्ति बाधकम् ।।८।। सुखे न जायते येषामुढेलो हर्षसागरः । दुःखं प्राप्य कथं लोके शोकमग्ना भवन्ति ते ।।६।। दैवस्य प्रवला शक्तिर्यतस्तद्ग्रस्तमानवः । यदैव यतते जेतुं तदैवाशु स पात्यते ।।१०।।
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy