________________
जी कुलस्य काव्य र
परिच्छेदः 3७
कामनाया दमनम् एकस्यापि पदार्थस्य कामना बीजसंततिः । प्रतिजन्तु यतो जन्मनिष्पत्तिः फलशालिता ।।१।।
कामना कर्तुमिच्छा चेत् तर्हि मुक्तौ विधीयताम् ।
सोऽधिकारी परं तत्र येनेयं कामना जिता ॥२।। निर्दोषं हि महद्वस्तु निष्कामित्वं महीतले । स्वर्गेऽपि नास्ति तत्तुल्यो द्वितीयः कोषसंग्रहः ।।३।।
कामनायाः परित्यागान्नान्या काचित् पवित्रता ।
तत्त्त्यागस्तु परब्रह्मपदप्राप्त्यभिलाषया ।।४।। मुक्तास्त एव सन्तीह निजिता यैस्तु कामना । अन्ये च बन्धनैर्बद्धाः स्वतन्त्रा इव भान्ति ते ।।५।।
हातव्या कामना दूरात् स्वकल्याणं यदीच्छसि ।
तृष्णाजालस्वरूपेयमन्ते नैराश्यकारिणी ।।६।। विषयाशाः परित्यक्ताः सर्वथा येन धीमता । मुक्तिरायाति तत्पावे निर्दिष्टेनैव वर्त्मना ।।७।।
यो न कामयते किंचिद् दुःखान्यपि न तत्कृते ।
बम्श्रमीति य आशावान् दुःखाना तग्य गशयः ।।८।। स्थिरं सुखं मनुष्येण प्राप्तुमत्रापि शक्यते । दुःखानुबन्धिनी तृष्णा विध्वस्ता चेत् स्वशक्तितः ।।६।।
इच्छाभिस्तु नरः कोऽपि संतृप्तो नैव भूतले । पूर्णतृप्तः स एवास्ति येनाशात्याग आदृतः ।। १०।।