SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ - कुबल काव्य - परिच्छेदः 38 सत्यस्यानुभूतिः अनित्ये खलु संसारे किंचित सत्यं न विद्यते । सत्यं पश्यन्ति ये तत्र तेषा दुःखितजीवनम् ।। १।। ___ मिथ्याभावविनिर्मुक्त आत्मदृष्टिश्च यो नरः । दुःखमोही समुच्छिद्य स शान्तिमधिगच्छति ॥२।। असत्यं यः परित्यज्य लभते सत्यदीपकम् । तत्कृतेऽतिसमीपस्थः स्वर्गो भतलगादपि ।।३।। यद्यात्मन् शाश्वतं सत्यमनुभूतं न जातुचित् । नरयोनौ तदा जन्मग्रहणेनापि को गुणाः ।।४।। इयानेवात्र सत्यांश: शेषस्तत्प्रत्यनीकभाक् । इदमेव परिज्ञानं मेधाया वरलक्षणम् ।।५।। येन सत्यमभिज्ञातं स्वाध्यायतपसोर्बलात् । स धन्यो याति तद्धाम यद्गत्वा न निवर्तते ।।६11 ध्यानप्रभृतियोगांगेयेन सत्यं समर्जितम् । भाविजन्मसमादाने का चिन्ता तस्य योगिनः ।।७।। अविद्या भवरोगस्य जननी सर्वदेहिनाम् । तन्मुक्त्या सह चित्प्राप्तिरेषेव प्राज्ञता परा 11८।। मोक्षमार्गस्य यो ज्ञाता मोहारेश्च जयोद्यतः । तस्य भावीनि दुःखानि यान्ति शान्तिमयत्नतः 11511 कामः क्रोधस्तथा मोहो यथा स्युः क्षीणशक्तिकाः । तथानुगामिदुःखानि क्षीयन्तेऽधिकमात्रया ।।१०।।
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy