________________
ता कुबल काव्य पर परिच्छेदः 3५
त्यागः मन्ये ज्ञानी प्रतिज्ञाय यत्किंचित् परिमुंचति । तदुत्पन्नमहादुःखान्निजात्मा तेन रक्षितः ।। १।।
अनेकसुखरत्नानामाकरस्त्यागसागरः ।
चिरं सुखाभिलाषा चेद् भव त्यागपरायणः ।।२।। निग्रहं कुरु पंचानामिन्द्रियाणां विकारिणाम् । प्रियेषु त्यज संमोहं त्यागस्यायं शुभक्रमः ।।३।।
सर्वसंगपरित्यागो यमिना व्रतमिष्यते ।
पुनर्बन्धनप्राप्तिर्हि त्यक्तोपात्तैकवस्तुना ।।४।। भवचक्रनिवृत्तीच्छोरस्ति कायेऽपि हेयता । कथमावश्यकास्तस्य भित्रा बन्धनहेतवः ।।५।।
'अहं' 'ममेति' संकल्पो गर्वस्वार्थित्वसम्भृतः ।
जेतास्य याति तं लोकं स्वर्गादुपरिवर्तिनम् ।।६।। अतितृष्णाभिभूतो यो लोभं नैव जिहासति । स दुःखैर्ग्रस्यते नित्यं यतो मुक्तिर्न जातुचित् ।।७।।
विरक्तो मोक्षमार्गस्थो निर्मोहः सर्ववस्तुनि ।
अन्ये संसारिणः सर्वे मोहजालवशीकृताः ।।८।। न चाप्नोति पुनर्जन्म लोभमोहजयक्षणात् । बन्धनं यैस्तु नोच्छिन्नं प्रमजाले पतन्ति ते ।।६।।
शरणं व्रज तस्यैव येन मोहो विनिर्जितः । आश्रयी भव तस्यैव छिद्यते येन बन्धनम् ।।१०।।
--
-
35