SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ - कुलत्य काव्य पर परिच्छेदः 33 अहिंसा अहिंसा परमो धर्मो धर्मेषु श्रेष्ठसम्मतिः । हिंसा च सर्वपापानां जननी लोकविश्रुता ।।१।। इदं हि धर्म पर्दम्य स्वयं बनने द्वरा ! क्षुधार्तेन समं भुक्तिः प्राणिनांचैव रक्षणम् ।।२।। अहिंसा प्रथमो धर्मः सर्वेषामिति सम्मतिः । ऋषिभिर्बहुधा गीतं मृनृतं तदनन्तरम् ।।३।। अयमेव शुभो मार्गो यस्मिन्नेवं विचारणा । जीवः कोऽपि न हन्तव्यः क्षुद्राक्षुद्रतरोऽपि सन् ।।४।। हिंसां दूरात समुत्सृज्य येनाहिंसा समादृता । उदात्तः स हि विज्ञेयः पापत्यागिषु वै ध्रुवम् ।।५।। अहिंसाव्रतसम्पन्नो धन्योऽस्ति करुणामयः । सर्वग्रासी यमोऽप्यस्य जीवने न क्षमो भवेत् ।।६।। विपत्तिकाले सम्प्राप्ते प्राप्ते च प्राणसंकटे । तथाप्यन्यप्रियप्राणान् मा जहि त्वं दयाधीः ।।७।। श्रूयते बलिदानेन लभ्यन्ते वरसम्पदः । पवित्रस्य परं दृष्टौ तास्तुच्छाश्च घृणास्पदाः ।।८।। येषां जीवननिर्वाहो हिंसायामेव निर्भरः । विबुधानां सुदृष्टौ ते मृतस्वादकसन्निभाः ।।६।। पूतिगन्धसमायुक्तं पश्य शी- कलेवरम् । स घातकचरो नूनं बुधैरित्यनुमीयते ।।१०।।
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy