SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ , कुबल काव्य घर परिच्छेदः 32 उपद्रवत्यागः लोभादिदोषनिर्मुक्तो विशुद्धहृदयो नरः ।। दत्ते त्रासं न कस्मैचिद् अपि कौवेरसम्पदे 11१।। द्वेषबुद्ध्या महत्कष्टं विधत्ते यदि दृष्टधीः । न कुर्वते तथाप्यार्या वैरशुद्धिं विकल्मषाः ।।२।। अहेतौ यो व्यथां दत्ते मे तस्मै च तथैव ताम् । दास्येऽहमिति संकल्पे दुश्चिकित्स्या विपत्तयः ॥३।। अहितस्य हितं कुर्याद् हिया येन मृतो भवेत् । विनया हि दुष्टानामषैव श्लाध्यपद्धतिः ।।४।। यो न वेत्ति परस्यापि स्वस्येव व्यसने व्यथाम् । कोऽर्थस्तस्य नरस्याहो तीक्ष्णयापि महाथिया ।।५।। दुःखानि यानि भुक्तानि स्वयमेव मनीषिणा । परस्मै तानि नो जातु देयानीति विचिन्तयेत् ।।६।। ज्ञातभावेन कस्मैचित् स्वल्पा अपि मनोव्यथाः । न दत्ते यस्ततः कोऽन्यः श्लाघ्यो भवति भूतले ।।७।। यानि दुःखानि भुक्तानि स्वयमेव मुहुर्मुहुः । न जातु तानि देयानि परस्मै सारसंग्रहः ।।८।। मध्यान्हे यद्यहो कश्चिद् बाधते प्रतिवेशिनम् । तद्दिने प्रहरादूर्ध्वं स्वयं सैव विपद्यते ।।६।। दुष्कर्मकारिणां शीर्षमाक्रमन्त्यापदः सदा । अपकृत्यान्यतो भद्रास्त्यजन्तीह निरन्तरम् ।। १०।। 32
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy