SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ जा कुस्न काव्य - कुरल काव्य रिच्छेद: 39 लोयत्यागः सत्यां निग्रहशक्तौ हि क्रोथत्यागः सुशोभते । यतः शक्तिविहीनस्य क्षान्त्याऽक्षान्त्या च किं भवेत् ।। १।। अथ चेन् निग्रहेऽशक्तिस्तदा कोपो निरर्थकः । __ अथ चेन् निग्रहे शक्तिस्तदा कोपो घृणास्पदः ।। २।। । हानिकर्ता भवेत् कोऽपि कोपो हेयस्तथापि सः । अनर्था येन जायन्ते शतशो दुःखदायिनः ।।३।। मोदं विहन्ति कोपोऽयमानन्दध्वन्सकारकः । अन्यो नास्ति ततः कोऽपि शत्रुहर्हानिविधायकः ॥४।। भद्रमिच्छसि चेद् भद्र कोपं मुंच सुदूरतः । अन्यथाऽऽक्रम्य शीघ्रं ते स विनाशं विधास्यति ॥५।। अग्निदहति तद्वस्तु तत्पावें यस्य संस्थितिः । ... भस्मीकरोति कोपस्तु क्रुध्यन्तं सुकुटुम्बकम् ।।६।। निधाय हृदि रोषं यो निथानमिव रक्षति । भूमि संताड्य हस्तेन पीड़ितः स प्रमत्तवतु ।।७।। सम्प्राप्य महतीं हानि क्रोधाग्नौ मंज्वलत्यपि । इदं भद्रतरं नूनं यत् कोपाद्भव दूरगः ।।८।। त्वरितं तस्य सिध्यन्ति सर्व एव मनोरथाः । येन दूरीकृतो नित्यं क्रोधोऽयं शान्तचेतसा ।।६।। स्ववशे नैव यश्चण्डः स नूनं मृतसन्निभः । यश्च कोपपरित्यागी योगितुल्यो विभाति सः ।।१०।। 31
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy