SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ज, कुभत्य काव्य ।र परिच्छेदः 30 सत्यभाषणम् यस्मान्न जायते पीडा कस्यापि प्राणधारिणः । तदेव वचनं सत्यं भाषितं मुनिपुंगवैः ।।१।। संकटाकीर्णजीवानामुद्धारकरणेच्छया । कथिता साधुभिर्जातु मृषोक्तिरमृषैत मा ।।२।। मृषात्वं यस्य विज्ञातं मनसा यदि धीमता । तद्वचो न प्रयोक्तव्यमनुतापोऽन्यथा भवेत् ।।३।। सत्यव्रतेन यस्यास्ति पवित्रं मानसं सदा । प्रभुत्वं वर्तते तस्य सर्वेषामेव मानसे ।।४।। सत्ये शाश्वतकल्याणे निमग्नं यस्य मानसम् । ऋषिभ्यः स महान् नूनं दानिभ्यश्च दरो मतः ।।५।। अतः परा च का कीर्तिर्यन्मृषासौ न भाषते । एवं विधो नरो नूनं विना क्लेशेन सिद्रिभाक् ।।६।। न वक्तव्यं न वक्तव्यं मृषावाक्यं कदाचन। सत्यमेव परो धर्मः किं परैर्धर्मसाधनैः ।।७।। विमलैः सलिलैर्यद्वद् गात्रं शुद्ध्यति देहिनाम् । एवमेव मनुष्याणां मानसं सत्यभाषणैः ।।८।। अन्यान् सर्वविधान्नैव प्रकाशान् मन्यते सुधीः । सत्यमेव परं ज्योतिर्विजानाति विशुद्धधीः ।।६।। बहुवस्तूनि दृष्टानि तत्रैकं सारवत्तरम् । इदमेव मया ज्ञातं यत्सत्यं परमोत्तमम् ॥१०।। 30
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy