SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ जो कुल काव्य र बारिखद: २७ तपः सर्वेषामेव जीवानां हिंसाया विरतिस्तथा । शान्त्या हि सर्वदुखानां सहनं तप इष्यते ।। १।। तपो नूनं महत्तेजस्तेजस्विन्येव शोभते । निस्तेजसि तपः किन्तु निष्फलं जायते सदा ।।२।। ऋषीणां परिचर्यार्थं केचिदावश्यका जनाः । इतीब न तपस्यन्ति किमन्ये धर्मवत्सलाः ।।३।। रिपूणां निग्रहं कर्तुं सुहृदांचाप्यनुग्रहम् । यदीच्छा तर्हि तप्यस्व तपस्तद्वयसाधनम् ।।४।। सर्वेषामेव कामानां सुसिद्धौ साधनं तपः । अतएव तपस्यार्थं यतन्ते सर्वमानवाः ।।५।। ये कुर्वन्ति तपो भक्त्या श्रेयः कुर्वन्ति ते ऽजसा । अन्ये तु लालसाबद्धा आत्मनो हानिकारकाः ।।६।। यथा भवति तीक्ष्णाग्निस्तथैवोज्जवलकांचनम् । तपस्येवं यथाकष्टं मनःशुद्धिस्तथैव हि ।।७।। प्रभुत्वं वर्तते यस्य स्वस्यात्मन्येव वस्तुनि । सम्पूजन्ति तं सर्वे निष्कामं पुरुषोत्तमम् ।।८।। शक्तिसिद्धीउभेयस्य संप्राप्ते तपसोबलात् । .. मृत्योरपि जये तस्य साफल्यं दृश्यते स्फुटम् ।।६।। अतृप्ताः सन्त्यसंख्याता अभिलाषावशंवदाः । अधिका हि तपोहीना विरलाश्च तपस्विनः 11१०11 || 27
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy