SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ - छुनल काव्य र परिच्छेदः २६ निरामिषजीवनम् अद्यते येन मांसं हि निजमांसविवृद्धये । नैव संभाव्यते नूनं करुणा तस्य मानसे ॥१॥ यथा धनं न तत्पावं व्यर्थं यो व्ययते नरः । मांसाशिनस्तथा चित्ते दयास्तित्वं न दृष्यते ।।२।। मांसमास्वाद्यते येन निर्दयेन दुरात्मना । न श्रेयसि मनस्तस्य लुण्ठाकस्येव शस्त्रिणः ।। ३३ । असंशयं महत् क्रौर्यं जीवानां खलु हिंसनम् । परं पापस्य घोरत्वं यन्मांसं भुज्यते जनैः ।।४।। नियमेन मनुष्यस्य मांसत्यागे सुजीवनम् । अन्यथा नरकद्वारं न निर्गन्तुमनावृतम् ।।५।। यदि नैव भवेल्लोके मांसास्वादस्य कामना । तर्हि नैव भवेल्लोके मांसस्य खलु विक्रयः ।।६।। परस्यापि विजानीयात् स्वस्येव निधने व्यथाम् । सकृदेव नरो भूयो न कुर्याज्जीवहिंसनम् ।।७।। मिथ्यात्वत्यजनाद् यस्य हृदयं न्यायसंगतम् । नासौ शवबुमुक्षुः स्यात् प्राणैः कण्ठगतैरपि ।।६।। हिंसायाः पिशिताच्चैव घृणा यस्यास्ति मानसे । कोटियज्ञफलं नित्यं लभ्यते तेन साधुना ॥६।। आमिषाजीवघाताच्च विरतिर्यस्य धीमतः । - पाणी संयोज्य सम्मानं कुरुते विष्टपम् ।।१०।। 26
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy