________________
कुरल काव्य
परिच्छेदः २५
दया
महतां हि धनं चित्तं करुणारससंभृतम् । अन्यद् द्रव्यं यतो लोके हीनवर्गे ऽपि दृश्यते ||१||
यथाक्रमं समीक्ष्यैव दयां चित्तेन पालयेत् । सर्वे धर्मा हि भाषन्ते दया मोक्षस्य साधनम् ||२||
असूर्या नाम ये लोका अन्धेन तमसावृताः । ताँस्ते प्रेत्य न गच्छन्ति येषां चित्ते दयालुता ||३|
अंहसां न फलं तेषां भुङ्क्ते सर्वदयारतः । येषां स्मरणमात्रेण नूनमात्मा प्रकम्पते ||४||
दयालुः पुरुषो नैव जायते क्लेशभाजनम् । साक्षिणी तत्र वातानां वलयैर्वेष्टिता मही || ५॥
हन्त येन दया धर्मस्त्यतः पापान्धचेतसा । विस्मृतं तेन भुक्त्वापि धर्मत्यजनदुष्फलम् ||६|| यथा वैभवहीनाय नायं लोकः सुखाकरः । न तथा परलोकोऽपि कारुण्यक्षीणवृत्तये ॥ ७ ॥
ऐहिकार्थपरिक्षीणः कदाचिद् धनिको भवेत् । परं भूतदयारिक्तो नामुत्र सुदिनोदयः ||८|| सुलभं नो यथा सत्यं कषायवशवर्तिनः । न प्रशस्तं तथा कार्यं सुकरं निष्ठुरात्मना ||६|| दुर्बलं. वाधितुं क्रूर यदोत्साहेन चेष्टसे । तत्पदे स्वं तदा मत्वा चिन्तयस्व निजस्थितिम् ||१०||
:.
25