________________
ज, कुवार काव्य परपरिच्छेदः २४
कीर्तिः दानं विश्राण्य दीनेभ्यः प्रार्जयेत् कीर्तिमुज्ज्वलाम् । कीर्तितुल्यो यतो लाभो नरस्यान्यो न विद्यते ।।१।।
प्रशंसकमुखे तेषां वर्तते नामकीर्तनम् ।
वैः सदा दायते क्षानं दालेभ्यो दययान्वितैः ।।२।। सर्वे भावा विनश्यन्ति भुवनत्रयवर्तिनः । अंतुला केवला कीर्तिर्नरस्याहो न नश्यति ।।३।।
दिगन्तव्यापिनी येन स्थायिनी कीतिरर्जिता ।
सम्मानयन्ति तं देवा ऋषेरपि महत्तरम् ।।४।। विनाशः कीर्तिविस्फायी मृत्युश्च कीर्तिवर्द्धनः । मध्येमागं समायाति महतामेव तद्वयम् ।।५।।
नरत्वं खलु चेल्लब्धं भवितव्यं यशस्विना ।
नियोगेन त्वया मर्त्य मा भवेस्त्वं नरोऽथवा ।।६।। न च क्रुध्यत्यहो स्वस्मै स्वयं दोषहतो नरः । परं वैरायते साकं निन्दकैः स जडाशयः ।।७।।
प्रतिष्ठाधारका नैव नूनं सन्ति नरास्तु ते ।
येषां नैव स्मृतिर्लोके कीर्तिस्पेण विश्रुता ।।८।। अपकीर्तिमतां भारैराकान्तं पश्य मण्डलम् । समृद्धमपि तत्पूर्वं क्षयं याति शनैः शनैः ।।६।।
निष्कलंक सदा यस्य जीवनं तस्य जीवनम् । कलंकैर्नष्टकीर्तिश्च नूनं मृतक एव सः ।।१०।।
.-(24)