SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ - शुभ zाव्य र परिच्छेदः २३ दानम् दीनाय दुःखपात्राय यद्दानं तत्प्रशस्यते । अन्यत् सर्वन्तु विज्ञेयमुद्धारसदृशं पुनः ।।१।। दानादाने हि न श्रेयः स्वर्गोऽपि प्राप्यते यदि । दानंच परमो धर्मः स्वर्गद्वारे ऽपि मुद्रिते ।।२।। प्रशंसाहर्हाः सतां मान्या ननु सर्वेऽपि दानिनः । परं तेषु कुलीनः स यः पूर्वं न निषेधति ।।३।। तावन्न मोदते दानी यावत्रासौ विलोकते । सन्तोषजनितं हर्षमर्थिनो मुखमण्डले ।।४।। विजयेषु समस्तेषु श्रेष्ठ: स्वात्मजयो मतः । ततोऽपि विजयः श्रेष्ठः परेषां क्षुत्प्रशामनम् ।।५।। आर्तक्षुधाविनाशाय नियमोऽयं शुभावहः । कर्तव्यो थनिभिनित्यमालये वित्तसंग्रहः ।।६।। इतरानपि संभोज्य यो 'मुङ्क्ते दययान्वितः । नैव स्पृशति तं जातु क्षुधारोगो भयंकरः ।।७।। संचिनोति विनाशाय संकीर्णहृदयो धनम् । ज्ञायते तेन न ज्ञातो दानस्य मधुरो रसः ।।८।। एकाकी कृपाणो भुङ्क्ते यदन्नं प्रीतिसंयुतः । अनाय॑जुष्टमस्वयं भिक्षान्नात् तघृणास्पदम् ।।६।। मृत्युरेव हि तद्वस्तु यत्सर्वाधिकमप्रियम् । दानशक्तरसद्भावे चित्रमेषोऽपि रोचते ।।१०।। 23
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy