SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ कुरल काव्य परिच्छेदः 29 पापभीतिः यन्मौ निखले लोके पापनाम्ना निगद्यते । ततोऽभीताः खलाः किन्तु सन्तस्तस्माच्च दूरगाः ।। १ ।। 'द्रोहात्संजायते द्रोह' इति सत्यं सुभाषितम् । दूरादेव ततस्त्याज्यो द्रोहाग्निर्वैरवर्द्धकः || २ || कथयन्ति बुधा एवं यद्धीः सैवेह शस्यते । यया बुद्धिमता नित्यं हानिर्हेया द्विषामपि ||३| विस्मृत्यापि नरो धीमान् परनाशं न चिन्तयेत् । यतस्तस्य विनाशाय न्यायो यक्ति सदेक्षते ||४|| 'निर्धनोऽस्मीति ' बुद्ध्यापि न कर्तव्यं हि किल्विषम् । दुरिताद् वर्द्धते यस्माद् दारिद्र्यमधिकाधिकम् ॥ ५॥ यदीच्छसि विपत्तिभ्यस्त्राणं सततमात्मनः । न कर्तव्या त्वया हानिः परेषां दुःखदायिनी || ६ || अन्यारिभ्यस्तु संरक्षा कदाचित् संभवत्यो । परं पापाद् विनिर्मुक्तिर्नाशात्पूर्वा न जातुचित् ||७|| न जहाति नरं छाया यथा सा पृष्ठवर्तिनी । तथैव पापकर्माणि नाशोदर्काणि देहिनाम् ||८| न करोति नरः पापं यस्यात्मा वै ध्रुवं प्रियः । स एव कुरुते पापं यस्यात्मा ध्रुवमप्रियः ||६|| विपदी विहतास्तस्य पूर्णरीत्या च रक्षितः । विधातुं पापकर्माणि यः सन्मार्गं न मुंचति ||१०|| 21
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy