SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ - ज, कुबल काव्य परिच्छेदः २० व्यापण अर्थशून्यं वचो यस्य श्रुत्वोद्वेगः प्रजायते । तत्सम्पर्काज्जुगुप्सन्ते लोके सर्वेऽपि मानवाः ।।१।। ___क्लेशदानं स्वमित्रेभ्यो वरमस्तु कथंचन । गोष्ठयां किन्तु वृथालापो न श्लाघ्यो निम्नताकरः ।।२।। निस्सारं दम्भपूर्णच व्याख्यानं यः प्रभाषते । नन्वाख्याति स्वयं लोके स मन्दः स्वामयोग्यताम् ।।३।। बुधवृन्दे प्रलापेन कोऽपि लामो न जायते । विद्यमानो वरांशोऽपि तत्सम्बन्धाद् विलीयते ।।४।। योग्योऽप्ययोग्यवद् भाति व्यर्थालापपरायणः । सम्मानं गौरवंचास्य द्वयमेव विनश्यति ।।५।। रुधिरेवास्ति यस्याहो मोघार्थवचसा व्यये । तं मानवं न जानीहि ह्यपेक्ष्यं चापि कच्चरम् ।।६।। उचितं बुध चेद् भाति कुर्याः कर्कशभाषण । परं नैव वृथालापं यतोऽस्माद्वै तदुत्तमम् ।।७।। येषां हि निरतं चित्तं तत्त्वज्ञानगवेषणे । विकथां ते न कुर्वन्ति क्षणमात्रं महर्षयः ।।८।। येषां तु महती दृष्टिये चैवं दीर्घदर्शिनः । विस्मृत्यापि न कुर्वन्ति वृथोक्तीस्ते महाधियः ।।६।। वाचस्ता एव वक्तव्या याः श्लाघ्याः सभ्यमानवैः । वर्जनीयास्ततो भिन्ना अवाच्या या वृथोक्तयः ।। १०।। (20
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy