________________
कुरल काव्य
परिच्छेदः १८ निर्लोभिता
सन्मार्गं यः परित्यज्य परवित्ताभिलाषुकः । खलत्वं वर्द्धते तस्य परिवारश्च नश्यति ||१||
जुगुप्सा यस्य पापेभ्यो लोभं नैव करोति सः । प्रवृत्तिस्तस्य भद्रस्य कुकर्मणि न जायते || २ ||
स्थिर सौख्याय यस्यास्ति स्पृहा तस्य सुमेधसः । लोभो नास्त्यल्पभोगानां पापकर्माविधायिनः ||३||
इन्द्रियाणि वशे यस्य चित्ते चातिविशालता । स्वोपयोगीति बुद्ध्या स नान्यवस्तु जिघृक्षति ||४||
किं तया क्रियते मत्या लोभे का क्रमते सदा । बोधेनैवंच किं तेन यद्यधाय समुद्यतः ||५||
सत्पथं ये सदा यान्ति सुकीर्तेश्चानुरागिणः । तेऽपि नष्टा भविष्यन्ति यदि लोभात् कुचक्रिणः ||६||
तृष्णया संचितं वित्तं मा गृध्य हितवांछया । एवंभूतं धनं भोगे दुःखैस्तीक्ष्णतरं भवेत् ॥ ७॥
.
लक्ष्मीर्भवेन्न मे न्यूना यद्येवं काड् क्षसे ध्रुवम् । मा भूस्त्वं ग्रस्तुमुद्युक्तो वैभवं प्रतिवेशिनः || ८ ||
सुनीतिं वेत्ति यः प्राज्ञः परस्वाद् विमुखो भवन् । तद्गृहं ज्ञातमाहात्म्या लक्ष्मीरन्विष्य गच्छति ||६|| अदूरदर्शिनस्तृष्णा केवला नाशकारिणी । निष्कामस्य महत्त्वन्तु सर्वेषां विजयि ध्रुवम् ||१०||
18