SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ त कुरण काव्य । परिच्छेद: १७ ईात्यागः ईर्ष्यापूर्णविचारास्तु सततं दुःखदायिनः । मनसा तांजहीहि त्वं तदमावे हि धर्मिता ।।१।। अखिलेाविनिर्मुक्तस्वभावसदृशं पुनः । नास्ति भद्रमहो पुंसां विस्तृते जगतीतले ।।२।। यस्य नास्ति धने प्रीतिधर्मे चात्महितंकरे । स ईय॑ति सदा वीक्ष्य समृद्धं प्रतिवेशिनम् 11३।। ईय॑या कुरुते नैव परहानि विचक्षणः । ईर्ष्याजन्यविकाराणां ह्युदर्कं वेत्ति तत्त्ववित् ।।४।। ईष्यवालं विनाशाय तदाश्रयप्रदायिनः ।। मुंचेद्वा तं रिपुर्जातु नत्वीर्ष्या सर्वनाशिनी ।।५।। ___ परस्मै यच्छते पुंसे य ईर्ण्यति नराधमः । भृशं दुःखायते तस्य कुटुम्ब कशिपोः कृते ।।६।। विजहाति स्वयं लक्ष्मीरीादूषितचेतसम् । अर्पयते च तं स्वस्याः पूर्वजायै दुराशयम् 11७।। अतिदुःखकरी नूनं दीनवीव दरिद्रता । इयमीp च तद्दती नरकद्वारदर्शिनी ।।८।। ईवितां समृद्धत्वं दानिनांच दरिद्रता । विवेकिनां मनस्येते समाने विस्मयावहे ।।६।। ईjया क्वापि नो कश्चित् पुष्पितः फलितोऽथवा । तथैवोदारचेतास्तु ताभ्यां क्वापि न वंचितः ।।१०।।
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy