________________
ज, कुरान काव्य र परिच्छेदः १६
क्षमा आश्रयं धरणी दत्ते खनितारमपि ध्रुवम् । तथा त्वं बाथकान्नित्यं क्षमस्वास्मिन् सुगौरवम् ।।१।।
तस्मै देहि क्षमादानं यस्ते कार्यविघातकः ।
विस्मृतिः कार्यहानीनां यद्यहो स्यात् तदुत्तमा ११२।। स एव निर्थनो नूनमातिथ्याद् यः पराड्.मुखः । एवं स एव वीरेन्दुर्मीख्य येन विषह्यते ।।३।।
यदि कामयसे सत्यं हृदयेन सुगौरवम् ।
कार्यस्तर्हि समं सर्वैर्व्यवहारः क्षमामयः ।।४।। प्रतिवरं विधत्ते यो न स्तुत्यः स विदाम्वरैः । अरावपि क्षमाशीलो बहुमूल्यः स हेमवत् ।।५।।
यावदेकदिनं हर्षों जायते वैरसाधनात् ।
क्षमादानवतः किन्तु प्रत्यहं गौरवं महत् ।।६।। प्राप्यापि महती हानि स्वल्पोऽप्याकारविभ्रमः । न लक्ष्यते परं चित्रं नैवेहा वेरशोधने ।।७।।
विधत्ते तव कार्याणां हानि यो गर्विताशयः ।
सद्वर्तनस्य शस्त्रेण तस्यापि विजयी भव ।।८।। गृहं विमुच्य ये जाता ऋषयो लोकपूजिताः । तेभ्योऽपि प्रवरा नूनं यैः खलोक्तिर्विषह्यते ॥६॥
महान्तः सन्ति सर्वेऽपि क्षीणकायास्तपस्विनः । क्षमावन्तमनुख्याताः किन्तु विश्वे हि तापसाः ।। १०।।
16