SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ कुरल काव्य परिच्छेदः १५ परस्त्रीत्यागः रूपलावण्यसंव्याप्तदेहयष्टिजुषामपि । नासौ रागी परस्त्रीणां धने धर्मे च यस्य धीः ||१|| नास्ति तस्मात् परो मूर्खो यो द्वारं प्रतिवेशिनः । वीक्षते पापबुद्ध्या स स्वधर्मात् पतितो जनः || २ || असंशयं मुखे मृत्योस्ते तिष्ठन्ति नराधमाः । असन्देहवतः सख्युर्गृहं यैरभिगम्यते ||३|| कोऽर्थस्तस्य महत्त्वेन रमते यः परस्त्रियाम् । व्यभिचारात् समुत्पन्ना लज्जा येन च हेलिता || ४ | आश्लिष्यति गले यश्च सुलभा प्रतिवेशिनीम् । अंकमारोप्य तेनैव दूषितं निजनामकम् ||५|| चत्वारो नैव चन्ति व्यभिचारिजनं सदा । घृणा पापानि भ्रान्तिश्च कलंकेन समन्विताः ।। ६ ।। विरक्तः प्रतिवेशिन्या रूपलावण्यसम्पदि । स एव सद्गृही सत्यं कुलजाचारपालकः ||७|| नैवेक्षते परस्त्रीं यः पुंस्त्वं तस्य जयहो । न परं तत्र धर्मित्वं महात्मा स हि भूतले || ८ || बाहुपाशे न यो धन्ते कण्ठाश्लिष्टां परांगनाम् । भोक्ता स एव सर्वेषां श्रेयसां भूमिवर्तिनाम् ||६| वरमन्यत्कृतं पापमपराधोऽपि वा चरम् । परं न साध्वी त्वत्पक्षे कांक्षिता प्रतिवेशिनी ||१०|| 15
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy