SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ - कुबल काव्य परपरिच्छेदः १४ सदाचारः सदाचारेण सर्वत्र प्रतिष्ठाधारको जनः । प्राणाधिकस्तती रक्ष्यः सदाचारः सदा बुधः ।। प्रत्यहं प्रत्यवेक्षेत सुधीश्चरितमात्मनः । दृढमित्रं यतो नास्ति तत्तुल्यं क्वापि पिष्टपे ।।२।। | आचारेण सुवंश्यत्वं द्योत्यते जगतीतले । कदाचारैश्च नीचानां श्रेणादायाति मानवाः ।।३।। विस्मृतोऽप्यागमः प्राज्ञैः कण्ठस्थः क्रियते पुनः । स्वाचारप्रच्युतः किन्तु न पुनर्याति तत्पदम् ।।४।। परोत्कर्षासहिष्णूनां यथा नैव समृद्धयः । न गौरवं तथा किंचिद् दुराचारवतः कृते ।।५।। न स्खलन्ति सदाचारात् प्रतिज्ञापालका जनाः । स्खलनं ते हि जानन्ति दुःखाब्धेर्मूलकारणम् ।।६।। सन्मार्गवर्तिनः पुंसः सन्मानं सम्यसंसदि । अप्रतिष्ठापकीर्तिश्च भाग्ये कापथगामिनः ॥७।। सुखबीजं सदाचारो वैभवस्यापि साधनम् । कदाचारप्रसक्तिस्तु विपदां जन्मदायिनी ।।।। विद्याविनयसम्पन्नः शालीनो गुणवान् नरः । प्रमादादपि दुर्वाक्यं न ब्रूते हि कदाचन ।।६।। अन्यत् सर्वं सुशिक्षन्ते मूर्खा योग्योपदेशतः । हन्त सन्मार्गगामित्वं न शिक्षन्ते कदापि ते ।।१०।।
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy