________________
प काव्य
- कुबत्य काव्य र परिच्छदः 93
संयमः इन्द्रियाणां निरोधेन लभ्यते त्रिदशालयः । घण्टापथस्तु विज्ञेयो रौरवार्थमसंयमः ।।१।।
संयमोऽपि सदा रक्ष्यो निजकोषसमो बुधैः ।
ततोऽधिकं यतो नास्ति निधानं जीवने परम् ।।२।। सम्यग्बोधेन यः प्राज्ञः करोतीच्छानिरोधनम् । मेधादिसर्वकल्याणं प्राप्स्यते स सदाशयः ।।३।।
इन्द्रियाणां जयो यस्य कर्तव्येषु च शूरता ।
पर्वतादधिकस्तस्य प्रभावो वर्तते मुवि ।।४।। नम्रता वर्तते नूनं सर्वेषामेव भूषणम् । पूर्णाशैः शोभते किन्तु धनिके विनयान्विते ।।५।।
संयम्य करणग्रामं कूर्मोऽगांनीव यो नरः ।
वर्तते लेन कोशो हि संचितो भाविजन्मने ।।६।। अन्येषां विजयो माऽस्तु संयतां रसनां कुरु । असंयता यतो जिहा बहूपायैरधिष्ठिता ॥७।।
एकमेव पदं पाण्यामस्ति चेन्मर्मघातकम् ।
विनष्टास्तर्हि विज्ञेया उपकाराः पुराकृताः ।।६।। दग्धमंग पुनः साधु जायते कालपाकतः । कालपाकमपि प्राप्य न प्ररोहित वाक्क्षतम् ।।६।।
पश्य मत्र्य जितस्वान्तं विद्यावन्तं सुमेधसम् । यदर्शनाय तद्गेहमेतो धर्मित्वसाधुते ।।१०।।
(13)