________________
कुल काव्य
परिच्छेदः १२ न्यायशीलता
इदं हि न्यायनिष्ठत्वं यन्निष्पक्षतया सदा । न्याय्यो भागो हृदा देयो मित्राय रिपवेऽथवा ॥१॥
न क्षीणा जायते जातु सम्पत्तियशालिनः । वंशक्रमेण सा याति सहैवास्य सुकर्मणः || २ ||
अन्यायप्रभवं वित्तं मा गृहाण कदाचन । वरमस्तु तदादाते लाभ एवास्तदूषणः ||३||
अन्यायेन समायुक्तं न्यायारूढंच मानवम् । व्यनक्ति संततिर्नूनं स्वगुणैरात्मसंभवम् ||४||
स्तुतिर्निन्दा च सर्वेषां जायेते जीवने ध्रुवम् । 'न्यायनिष्ठा परं किंचिदपूर्वं वस्तु धीमताम् ||५|
नीतिं मनः परित्यज्य कुमार्ग यदि धावते । सर्वनाशं विजानीहि तदा निकटसंस्थितम् ||६||
अथ निःस्वो भवेन् न्यायी कदाचिद् दैवकोपतः । तथापि तं न पश्यन्ति लोका हेयदृशा ध्रुवम् ||७||
अमायिकस्तुलादण्डः पक्षद्वयसमो यथा 1 तेन तुल्यः सदा भूयादासीनो न्यायविष्टरे || || नैवस्खलति चेतोऽपि सुनीतेर्यस्य धीमतः । तस्यैौष्ठनिर्गतं वाक्यं न मृषा न्यायरागिणः || ६ |
परकार्यमपि प्रीत्या स्वकार्यमिव यो गृही । कुरुते तस्य कार्येषु सिद्धिर्भाग्यवतः सदा 1190 ||
12