SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ - कुचल काव्य - परिच्छेदः ११ कृतज्ञता या दया क्रियते भव्यैराभारस्थापनं बिना । स्वयंमल्वुभौ तस्याः प्रतिदानाय न क्षमी ।।१।। शिष्टैरवसरं वीक्ष्य यानुकम्पा विधीयते । स्वल्पापि दर्शने किन्तु विश्वस्मात् सा गरीयसी ।।२।। आपन्नातिविनाशाय यानपेक्ष्यार्यवृत्तिना । क्रियते करुणा तस्या अब्धेरप्यधिकं बलम् ।।३।। लाभः सर्षपतुल्योऽपि परस्माज्जायते यदि । कृतज्ञस्य पुरस्तात्तु तालतुल्यो भवप्यसौ ।।४।। सीमा कृतज्ञतावास्तु नोपकारावलचिता । तन्मूल्यमुपकार्यस्य पात्रत्वे किन्तु निर्भरम् ।।५।। उपेक्षा नैव कर्तव्या प्रसादस्य महात्मनाम् । प्रणयोऽपि न हातव्यस्तेषां ये दुःखबान्धवाः ।।६।। संकटे भीतिमापत्रान् य उद्धरति सर्वदा । कृतज्ञत्वेन तन्नाम कीर्त्यते हि भवान्तरे ।।७।। नीचत्वं ननु नीचत्वमुपकारस्य विस्मृतिः । भद्रत्वं खलु भद्रत्वमपकारस्य विस्मृतिः ।।८।। अपकर्तुरपि प्राज्ञैरुपकारः पुराकृतः । स्मृतः करोति दुःखानां विस्मृति मर्मघातिनाम् ।।६।। अन्यदोषेण निन्द्यानामुद्धारः संभवत्यहो । परं भाग्यविहीनस्य कृतघ्नस्य न चास्ति सः ।।१८।।
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy