SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ - कुचल काठ्य पर परिच्छेदः 90 मधुरभाषणम् सुस्निग्धा मधुरा नूनं सतां भवति भारती । अकृत्रिमा दयायुक्ता पूर्णसद्भावसंभृता ।।१।। प्रियवाण्यां सुवात्सल्ये स्निग्धदृष्टौ च यद्विधम् । माधुर्यं दृश्यते तद्वद् बृहदानेऽपि नेक्ष्यते ।।२।। स्नेहपूर्णा दयादृष्टिहार्दिकी या च वाक्सुधा । एतयोरेव मध्ये तु धर्मो वसति सर्वदा ।।३।। वचनानि रसान्यानि यस्यास्लादकराणि सः । कदाचिल्लभते नैव दारिद्रयं दुःखवर्द्धनम् ।।४।। भूषणे द्वे मनुष्यस्य नम्रताप्रियभाषणे । अन्यद्धि भूषणं शिष्टैर्नादृतं सभ्यसंसदि ।।५।। यदि ते मानसं शुद्ध वाणी चान्यहितकरी । धर्मवृद्धया समं तर्हि विज्ञेयः पापसंक्षयः ।।६।। सेवाभावसमायुक्तं विनम्रवचन सदा । विश्वं करोति मित्रं हि सन्त्यन्येऽपि महागुणाः ।।७॥ शब्दाः सहृदयैः श्लाघ्याः क्षुद्रतारहिताश्च ये । कुर्वन्ति ते हि कल्याण मिहामुत्र च भाषिणः ।।८।। श्रुतिप्रियोक्तिमाधुर्यमवगम्यापि ना कथम् । न मुंचति दुरालापं किमाश्चर्यमतः परम् ।।६।। विहाय मधुरालापं कटूक्ति योऽथ भाषते । अपक्वं हि फलं भुक्ते परिपक्वं विमुच्य सः ।।१०।।
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy