SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ - कुबल काव्य - अतिथि सत्कारः बहुकष्टसमाकीर्णं गृहभारं मनीषिणः । वहन्ति केवलं वीक्ष्य पुण्यमातिथ्यपूजनम् ।।१।। यदि दैवाद् गृहे वासो देवस्यातिथिरूपिणः । पीयूषस्यापि पानं हि तं विना नैव शोभते ।।२।। गृहागतातिर्भक्तेर्यो हि नैव प्रमाद्यति । तस्योपरि न चायाति विपत्तिः कापि कष्टदा ।।३।। योग्यातिथैः सदा यस्य स्वागते मानसीस्थितिः । । श्रियोऽपि जायते मोदो वासार्थं तस्य समनि ।।४।। शेषमन्नं स्वयं भुङ्क्ते पूर्व भोजयतेऽतिथीन् । क्षेत्राण्यकृष्टपच्यानि नूनं तस्य महात्मनः ।।५।। पूर्वं सम्पूज्य गच्छन्तमागच्छन्तं प्रतीक्षते । यः पुमान् स स्वयं नूनं देवानां सुप्रियोऽतिथिः ।।६।। आतिथ्यपूर्णमाहात्म्यवर्णने न क्षमा चयम् । दातृपात्रविधिद्रव्यैस्तस्मिन्नस्तिविशेषता ।।७।। अकर्ताऽतिथियज्ञस्य शोकमेवं गमिष्यति । संचितोऽयं महाकोषः पंचत्वे हा न कार्यकृत् ।१८॥! योग्यवैभवसद्भावे येनाहो नेज्यतेऽतिथिः । दरिद्रः स नरो नूनं मूर्खाणांच शिरोमणिः ।।६।। आघातं म्लानतां याति शिरीषकुसुमं परम् । एकेन दृष्टिपातेन म्रियतेऽतिथिमानसम् ।।१०।।
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy