SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ कुरल करण्य पविजेता संततिः यदि पुण्यात् कुले जन्म बुद्धिमत्याः सुसंततेः । ततो ऽधिकं परं श्रेयो न मन्येऽहं महीतले ।।१|| निष्कलंका सदाचारभूषिता यस्य संततिः । सप्तजन्मसमाप्त्यन्तं नासौ पापस्य भाजनम् ||२|| आनन्ददायिनी पुंसः संततिः सत्यसम्पदा । निधानं प्राप्यते पुण्यैरीदृशं सुखदायकम् ||३|| शिशुभिर्लघुहस्ताभ्यां मध्यते यत् सुभोजनम् । तद्रसास्वादनं नूनं पीयूषस्वादसन्निभम् || ४ || अंगस्पर्शो हि बालानां देहे पूर्णसुखोदयः । निसर्गललितालापस्पेषां कर्णरसायनम् ||५|| वेणुध्वनी सुमाधुर्यं वीणा स्वादीयसी बहुः । एवं वदन्ति यैर्नैव श्रुता संततिकाकिली || ६ | प्रजां प्रति पितुः कार्यमिदमेवावशिष्यते । मध्येसभं यथा स्यात् सा बुधपंक्ती गुणादृता ||७|| सर्वेषां जायते मोदो दृष्ट्वा हर्षविकासिनीम् । बुद्धिवैभवमाहात्म्यैरात्मनोऽप्यधिकां प्रजाम् ||८|| प्रकाशते सुतोत्पत्त्या मातुर्मोदस्य वारिधिः । तत्कीर्तिश्रवणात्तस्या उद्वेलः स च जायते ॥ ६॥ यदुदात्तां कृतिं वीक्ष्य पृच्छेयुर्जनकं जनाः । यदीदृक् तपसा केन सुतो लब्धः स नन्दनः || १| Smar 7
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy