________________
-
तु, कुवर काय परिच्छेदः 900
भिक्षाभीतिः अभिक्षुको वरीवति भिक्षोः कोटिगुणोदयः । याचनास्तु वदान्ये वा निजादधिगुणे च वै ।।१।।
भिक्षया जीवनं कुर्यान् नरो यस्यैष निश्चयः ।।
सृष्टेः स च विधातापि बम्भ्रमीतु भवे भवे ।।२।। निर्लज्जेष्वपि निर्लज्जः सोऽस्ति कापुरुषः परः । यो ब्रूते भिक्षया नूनं नाशयिष्ये स्वनिःस्वताम् ।।३।।
न याचते परात् किंचिद् यो नरो निर्धनोऽपि सन् ।
महीं तस्य कृते स्वल्पा धन्यं तस्यात्मगौरवम् ।।४।। यद्भोजनं स्वपाणिभ्यामय॑ते श्रमपूर्वकम् । जलवच्चेद् द्रवीभूतं स्वादीयः किन्तु भक्षणे ।।५।।
एकोऽपि याचना शब्दो जिह्यया निकृतिः परा ।।
वरमस्तु स शब्दोऽपि पानीयार्थं हि गोः कृते ।।६।। एक हि याचकान् याचे मा याचध्वं कदाशयान् । अद्यश्वो ये तु कुर्वन्ति साधयन्ति न चेप्सितम् ।।७।।
याचनाश दपोतस्यादातुवै कालयापनम् ।
शिलासंघातसंकाशं जायते भंगकारणम् ।।८।। भाग्यं याचनवृत्तीनां समीक्ष्यात्मा विकम्पते । वीक्ष्यावज्ञा पुनस्तेषां म्रियते ध्रुवमेव सः ११६।।
निलीनाः कुत्र तिष्ठन्ति प्राणास्तम्य निषेधिनः । धिक्कारं किन्तु श्रुत्वैव ते निर्यान्यर्थिनस्तनोः ।।१०।।
....-----(107)----