________________
-
जा. कुलस्य काव्य परिच्छेदः 906
क्षष्टजीवनम् सन्तीमे पतिता भ्रष्टाः कीदृशो मनुजैः समाः । अहो एवंविधं साम्यं मया नान्यत्र वीक्षितम् ।।१।।
अनार्या अधिका आर्याज्जायन्ते सुखिनो ध्रुवम् ।
यतो न मानसैर्दुःखैरभिभूता भवन्ति ते ।।२।। आभासन्ते किल भ्रष्टाः प्रत्यक्षेश्वरसन्निभाः ।। यतः स्वशासिता नित्य ते भवन्ति महीतले ॥३॥
अतिदुष्टो यदा स्वस्मान् न्यूनं पश्यति दुर्जनम् ।
वर्ण्यते तत्पुरस्तेन गर्वोक्त्या स्वाधसंहतिः ।।४।। दुष्टा नरा भयेनैव कयाचित् तृष्णयाऽथवा । श्रेयोमार्गे प्रवर्तन्ते निसर्गात्तु कुमार्गिणः ।।५।।
पुरढक्कासमाः सन्ति नीचाः खलु निसर्गतः ।।
कर्णजाहं गतं भेदं यान्त्युद्धोष्यैव निर्वृतिम् ।।६।। तेषामेव वशे नीचा मुखे ये मुष्टिघातकाः । अन्यथोच्छिष्टपाणेश्च प्रक्षेपाय निषेधकाः ।।७।।
एकमेव हि सद्वाक्यमलं योग्याय वर्तते ।
विसृजन्ति तथा क्षुद्रा यथा पुण्ड्रा निपीलिताः ॥८।। | यदैव सुखिनं दुष्टः पश्यति प्रतिवेशिनम् । तदैव तेन तन्मूनि दोषः कोऽप्यवतार्यते ।।६।।
क्षुद्रो हि मानवो जातु विपदा परिभ्यते । शीघ्रमेव स मोक्षार्थ विक्रीणीते स्वजीवनम् ।।१०।।
=108)-=
108