________________
-
-
-
-
--
-
-
, कुपल काव्य परपरिचन्दः १५
दरिद्रता दारिद्र्यादधिकं लोके वर्तते किन्नु दुःखदम् । इति पृच्छास्ति चेतर्हि श्रृणु सैवास्ति निःस्वता ।।१।।
हतदैवं हि दारिद्र्यमस्त्येवेहाति दुःखदम् ।
पारलौकिकभीगानामप्यास्ते किन्तु घातकम् ।।२।। तृष्णानुबन्धिदारिद्र्यं सत्यं गातिगर्हितम् । वंशस्य गुरुतां हन्ति वाचो यच्च मनोजताम् ।।३।।
हीनस्थितिमनुष्यग्य महती कष्टदायिनी ।
हीना इव प्रभापन्ने सुवंश्या अपि यद्वशात् ।।४।। अभिशापोऽस्ति देवस्य दारिद्र्यापरनामकः । निलीनाः सन्ति यस्याधो विपदो हि सहनश: ।।५।।
रिक्तस्य न हि जागर्ति कीर्तनीयोऽखिलो गुणः ।
अलमन्यैर्न लोकेभ्यो रोचते तत्सुभाषितम् ।।६।। आदौ रिक्तः पुनर्धर्माद्धीनो यस्तु पुमानहो । पौरुषं तस्य संवीक्ष्य तन्मातैव जुगुप्सते ।।७।।
किन्न मुंचसि दुःखात मामद्यापि दरिद्रते।
ह्य एव हि महादुष्टे कृतः सामिमृतस्त्वया ॥८।। तप्तशूलेषु सुष्वापः कदाचित् सम्भवत्यहो । आकिंचन्ये च मर्त्यस्य सुखनिद्रा न संभवा ।।६।।
उत्सृजन्ति निजप्राणान् यदि नो निर्धना न तीन्येषां वृथा याति भक्तं पानंच सैन्धवम् ।।