________________
- कुकरम काव्य - परिच्छेदः १०४
कृषिः नरो गच्छतु कुत्रापि सर्वत्रान्नमपेक्षते । उत्सितिल ऋोतरमादा मुभिधेऽणि हिताय सा ।।१।।
कृषिवला धुरा तुल्या देशरूपस्य चक्रिणः ।
अकृषाणा यतः सन्ति नूनं तदुपजीविनः ।।२।। ये जीवन्ति कृषि कृत्वा ते नराः सत्यजीविनः । परपिण्डादिनः किन्तु सर्वेऽन्ये सन्ति मानवाः ।। ३11
स्निग्धच्छायासु सस्यानो क्षेत्राणि यस्य शेरते ।
तद्देशीयनृपच्छत्रादधः स्युश्छत्रिणः परे ॥४॥ अभिक्षुकाः परं नैव दानिनोऽप्यनिषेधकाः । ते सन्ति ये कृषि नित्यं कुर्वते साधुमानवाः ।।५।।
कृषीवलाः कृषेः कार्याद विरताश्चेत् कथंचन ।
सन्यासिनोऽपि ये जातास्तेऽपि स्युर्वज्पीडिता: ।।६।। जलार्दा खलु चेन्मृत्स्ना शोषयेत् तां रवे: करैः । तुर्याशस्यावशेषे सा निःखाद्यापि बहूर्वरा ।।७।।
कर्षणात् खाद्यदानेषु निन्यदानादनन्तरम् ।
अम्बुसेकाच्च रक्षायां भवन्ति बहवो गुणाः ।।८। यः पश्यति कृषि नैव गृहे नित्यमवस्थितः । सुभार्येव कृषिस्तस्मै कुप्यति क्षीणदेहिका ।।६।।
भक्षणाय न मे किंचिदस्तीति वचनं भृशम् । वदन्तं क्रन्दमानंच हसत्युवीरमालसम् ।। १०।।