SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ जी कुल काव्य परपरिच्छेदः १०२ लज्जाशीलता भद्रो जिहेति लोकेऽस्मिन् प्रमादादेव सर्वदा । सुन्दरीणामतो भिन्ना लज्जा भवति सर्वथा ।।१।। इयं लज्जैव मत्येषु वर्तते भेदकारिणी । अन्यथा सदृशाः सर्वे वस्त्रसन्तानमुक्तिभिः ।।२।। वसन्ति सर्वदेहेऽस्मिन् प्राणा यद्यपि देहिनाम् ।। नरस्य योग्यता किन्तु लज्जामावसति ध्रुवम् ।।३।। हृदये गुणिता लज्जा रत्नतुल्यो महानिधिः । उत्सेको गतलज्जस्य चक्षुषोः कष्टकारकः ।।४।। मानभंग परस्यापि वीक्ष्य स्वस्येव ये जनाः । त्रपन्ते ते महात्मानः शीलसंकोचमूर्तयः ।।५॥ निन्दितैः साधनैपि राज्यं गृह्णन्ति साधवः । उपेक्षां तेन तन्वन्ति कीर्तिकान्तानुरागिणः ।।६।। लज्जात्राणाय मुंचन्ति निजांगं भद्रवृत्तयः ।। न त्यजन्ति हियं वा ते प्राप्तेऽपि प्राणसंकटे ।।७।। परो हि त्रपते यस्मात् ततो यो नैव लज्जते । पतितः स नरो नूनं ततो जिवेत भद्रता ।।८।। विस्मृताश्चेत् कुलाचाराः कुलभ्रष्टोऽभिजायते । लज्जायां किन्तु नष्टायां सर्वे नश्यन्ति सद्गुणाः ।।६।। लज्जावारि मनुष्यस्य चक्षु किल चेच्च्युतम् । जीवनं मरणं तस्य काष्ठपुत्तलसन्निभम् ॥१०॥ (102)----- -
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy