SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ कुरल काव्य परिच्छेदः 900 सभ्यता निर्व्याजचेतसा नित्यं स्वागताय समुद्यताः । अपूर्वेषु प्रियालापा भवन्ति प्रियदर्शनाः 11911 ज्ञानमूना: सुसंस्कारा हृदये च दयालुता । चेद् गुणद्वयसम्बन्धाद् हर्षबुद्धिः प्रजायते ||२|| आकृती सति साम्येऽपि न साम्यं मन्यते बुधः । आचारैश्च विचारैश्च साम्यं वै हर्षदायकम् 11३॥ सन्नीत्या धर्मबुद्धया च लोकानुपकरोति यः । स्तुवन्ति सुजनास्तस्य प्रकृतिं पुण्यरूपिणीम् ।। ४ । । उक्त हास्येऽपि दुर्वाक्यं जनानामस्त्यरुन्तुदम् । दुर्व्याहृतं न कर्तव्यं भद्वैस्तस्माद् रिपावपि ||५|| सार्वाः सद्गुणसम्पन्ना आर्याः सन्ति महीतले । दयादाक्षिण्यसम्पूर्ण तेनेदं वर्तते जगत् ||६|| आचारात्पतितो नैव शिक्षितोऽपि शुभावहः । सुव्रश्चनो यथा नैव रणे दण्डाद् वृहत्तरः ||७|| अनम्रता नरस्यायैः सदा सर्वत्र गर्हिता । अन्यायिनि विपक्षे वा प्रयुक्ताऽपि न शोभते ॥ ८ ॥ स्मितं न जायते यस्य विस्तृते धरणीतले ।' तस्याभाग्यवतो नूनं दिनेऽपि निविद्धं तमः ||६|| कुपात्रे निहितं क्षीरं यथैवास्ति निरर्थकम् । वैफल्यं हि तथा याति वित्तं दुर्जनसनि 119011 100
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy