SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ गी, कुचल काव्य र परिच्छेदः १ योग्यता कार्यस्वरूपमालोच्य योग्यतायै समाहिताः । कर्तव्यमेव तत्सर्वं मन्यन्ते यद्गुणास्पदम् ।।१।। सद्वृत्तमेव भद्राणां सौन्दर्य सुमनोहरम् । देहरूपं परं तत्र नास्ति वैचित्र्यकारणम् ।।२।। दाक्षिण्यं विश्वबन्धुत्वं लज्जा सूनृतगृह्यता । गोपनंचान्यदोषाणां सद्वृत्तस्तम्भपंचकम् ।।३।। महर्षीणां यथा धर्मः सर्वसत्वानुकम्पनम् । भद्राणांच तथा धर्मो दोषस्यानपकीर्तनम् ।।४।। लघुता नम्रता चापि बलिनामेव सबले । जयार्थं ते हि शत्रूणां सतां सत्राहसत्रिभे ।।५।। लघूनामपि योग्यानामादरो गुणरागतः । जायते यत्र शाणोऽसौ योग्यतायाः प्रकीर्तितः ।।६।। कोऽर्थस्तस्य महत्त्वेन योग्यस्यापि महामतेः । खलैरपि समं यस्य सद्वृत्तिर्नेव दृश्यते ।।७।। निर्धनत्वं महादोषो गुणराशिविनाशकः । किन्त्वाचारवतः सोऽपि नालं गौरवहानये ।।८।। विपदा सन्निपातेऽपि सन्मार्गान्न स्खलन्ति ये । प्रलयान्तेऽपि ते सन्ति सीमान्ता योग्यताम्बुधेः ।।६।। विहाय भद्रतां भद्रा अभद्रा इन्त चेदहो । मानवानां क्षितिर्भारं वोढुं मैवाक्षमिष्यत ।।१०।। 99
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy