SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ -- कुबल काव्य परपरिच्छेदः १४ महत्त्वम् उच्चकार्यचिकीर्षेव महत्त्वं परिभाष्यते । विना तेन भवत्येषा क्षुमान प्रधारिणी ।।१।। जन्मना सदृशाः सर्वे मानवाः सन्ति भूतले । कीर्ती किन्तु महान् भेदस्तेषां कार्यप्रभेदतः ।।२।। कुलीनोऽपि कदाचारात् कुलीनी नैव जायते । निम्नजोऽपि सदाचारान् न निम्नः प्रतिभासते ।।३।। निर्व्याजया बहिर्वृत्या विशुद्ध्या चात्मनः सदा । महत्त्वं रक्ष्यते पुसा यथाशीलं कुलस्त्रिया ।।४।। साधनानां प्रयोक्तारो मल्लान्तो हि निसर्गतः । भवन्त्यशक्यकार्याणां स्रष्टारोऽपि स्वकौशलात् 11५।। लधूनां स्वल्पबुद्धीनां सर्ग एव तथाविधः । यत् प्रतिष्ठा न फूज्यानां न चेच्छा तत्कृपाप्तये ।।६।। सम्पत्तिः प्राप्यते काचिद् यदि क्षुट्रैः सुदैवतः । मानप्रदर्शनं तेषां निस्सीम जायते ततः ।।७।। नीचैर्वृत्तिर्महतायां परं नैव प्रदर्शनम् । भवतीति सुविख्यातं क्षुद्रता विश्वघोषिका ।।८।। महतां लघुभिः सार्धं व्यवहारो दयान्वितः । स्निग्धश्च जायते किन्तु क्षुद्रो मूर्त इव स्मयः ।।६11 उदात्ताः परदोषाणां निसर्गादुपगृहकाः ।। अनुदात्ताश्च विद्यन्ते परच्छिद्रगवेषकाः ।।१०।। 98
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy