SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ , कुपस्प काञ्च - परिच्छेदः ९७ प्रतिष्ठा आत्मनः पतनं यस्मात् तस्माद् भवतु दूरगः । अपि चेन्याणरक्षागै तम्यानमारकी स्थितिः ।। कामयन्ते निजां कीर्ति जीवनोपरमेऽपि ये । अपि प्रभाववृद्ध्यर्थमयोग्यं कुर्वते न ते ।।२।। समृद्धौ कुरु हे भव्य विनयश्रीसुवर्षणम् । क्षीणस्थितौ तु सम्माने दृष्टिमान् भव सर्वदा ।।३।। कुकृत्यैर्दूषिता येन स्वप्रतिष्ठा महीतले । स मनुष्यस्तथा भाति कर्तिता अलका यथा ।।४।। गुंजातुल्यमपि स्वल्पं कुर्याच्चेत् किल्विषं नरः । क्षुद्रो भवति भूत्वापि प्रभावे गिरिसन्निभः ।।५।। न यशो वर्द्धते यस्मान् नापि स्वर्गश्च लभ्यते । घृणाकर्तुः कथं तस्य भवत्या जीवितुमिच्छसि ।।६।। । घृणाकर्तुः पदर्शादिदमेव वरं ध्रुवम् । यद्भाग्ये लिखितं भोक्तुं सज्जः स्यान् निर्विकल्पकः 1७।। अनर्घ वस्तु किं कायो यन्मोहान् मोहिता जनाः । रक्षन्ति तं महायत्नैर्विक्रीयापि स्वगौरवम् ।।८।। आत्मानं हन्ति केशेषु कान्तारे चमरी यथा ।। स्वाभिमानी तथा हन्ति मानार्थ स्वस्य जीवितम् ।।६।। हते माने पुनर्लोके यो न जीवितुमिच्छति । लोकास्तस्य यशोवेदी क्षिपन्ति कुसुमांजलिम् ।।१०।।
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy