SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ । कुरत कालमा : परित्लेट: १६ कुलीनता निसर्गादभिजातानां भवतो द्वौ हि सद्गुणौ । हृद्या लज्जास्ति तत्रैको द्वितीयश्च यथार्थता ।।१।। सदाचारात् सुलज्जायाः सत्यस्नेहाच्च सर्वदा । नैवस्खलन्ति सदश्याः ख्यातमेवेति भूतले ।।२।। कुलीनो हि भवत्येव चतुर्भिः सद्गुणैर्युतः । हृष्टास्यो मधुरालापी गर्वशून्य उदारधीः ।।३।। कोटिसंख्यकमुद्राणां लाभोऽपि किल चेदरम् । तथापि नो निजं नाम दूषयन्ति सुवंशजाः ।।४।। पुरातनमहावंशजातान् पश्यन्तु भो जनाः । न त्यजन्ति गतैश्वर्या अपि ये स्वामुदारताम् ।।५।। प्रतिष्टितं कुलाचार रक्षितुं ये समुद्यताः । ते कुकृत्यं न कुर्वन्ति भवन्ति न च मायिनः ।।६।। शुद्धान्वये प्रसूतस्य दोषः सर्वैः समीक्ष्यते ।। चन्द्रबिम्बे यथा लग्नः कलंक: कैर्न दृश्यते ।।७।। विशुद्धकुलजातोऽपि भाषते गहितं यदि । आशंका तर्हि कुर्वन्ति लोकास्तजननेऽपि च ।।६।। || आख्याति भूमिमाहात्म्यं यथा वृधः फलश्रिया । वाणी वक्ति तथा लोके मनुष्यस्य कुलस्थितिम् ।।६।। सलज्जो भव चेदिच्छा साधुत्वे सद्गुणेषु च । औचित्येन समं ब्रूहि चेदिच्छा वंशगौरवे ॥१०।। (96
SR No.090260
Book TitleKural Kavya
Original Sutra AuthorN/A
AuthorG R Jain
PublisherVitrag Vani Trust Registered Tikamgadh MP
Publication Year2001
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy