SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाक्षिकादि-प्रतिक्रमणम्। wwwwwwwwwwwww शंकादृष्टिविमोहकांक्षणविधिव्यावृत्तिसन्नद्धता वात्सल्यं विचिकित्सनादुपरतिं धर्मोपबृंहक्रियाम् । शक्त्या शासनदीपनं हितपथाद्धृष्टस्य संस्थापनम् वन्दे दर्शनगोचरं सुचरितं मूनों नमभादरात् ॥३॥ एकांते शयनोपवेशनकृतिः सन्तापनं तानवम् संख्यावृत्तिनिवन्धनामनशनं विष्वाणमर्दोदरम् । त्यागं चेन्द्रियदन्तिनो मदयतः स्वादोरसस्यानिशम् पोढा बाह्यमह स्तुवे शिवगतिप्राप्त्यभ्युपायं तपः ॥४॥ स्वाध्यायः शुभकर्मणश्च्युतवतः संप्रत्यवस्थापन ध्यानं व्याप्रतिरामयाविनि गुरौ वृद्धे च बाले यतौ । कायोत्सर्जनसक्रिया विनय इत्येवं तपः षड्विधं वन्देऽभ्यंतरमंतरंगवलवद्विद्वेषिविध्वंसनम् ॥ ५॥ सम्यग्ज्ञानविलोचनस्य दधतः श्रद्धानमहेन्मते वीर्यस्याविनिगृहनेन तपसि स्वस्य प्रयत्नाद्यते। या वृत्तिस्तरणीव नौरविवरा लघ्वी भवोदन्वतो वीर्याचारमहं तमूर्जितगुणं वन्दे सतामर्चितम् ॥ ६॥ तिस्रः सत्तमगुप्तयस्तनुमनोभाषानिमित्तोदयाः पंचेर्यादिसमाश्रयाः समितयः चव्रतानीत्यपि । चारित्रोपहितं त्रयोदशतयं पूर्व न दृष्टं परैराचारं परमेष्ठिनो जिनपतेर्वीरं नमामो वयम् ॥ ७॥ आचारं सहपंचमेदमुदितं तीर्थ परं मंगलं निग्रंथानपि सच्चरित्रमहतो वंदे समग्रान्यतीन् । आत्माधीनसुखोदयामनुपमां लक्ष्मीमविध्वंसिनीमिच्छन्केवलदर्शनावगमनप्राज्यप्रकाशोज्वलाम् ॥८॥ For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy