________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Achar
क्रिया-कलापे
भूता भव्या भवंतः सकलजगति ये स्तूयमाना विशिष्टैस्तान्सर्वान्नौम्यनतान्निजिगमिषुररं तत्स्वरूपं त्रिसन्ध्यम् ॥ ९ ॥
(अञ्चलिका-) इच्छामि भंते ! सिद्धभत्ति-काउस्सग्गो को तस्सालोचेउं सम्मणाणसम्मदंसणसम्मचारित्तजुत्ताणं, अहविहकम्मविप्पमुकाणं, अहगुणसंपण्णाणं, उड्ढलोयमत्थयम्मि पइटियागं, तवसिद्धाणं णयसिद्धाणं, संजमसिद्धाणं, अतीताणागदवट्टमाणकालत्तयसिद्धाण, सम्वसिद्धाणं सया णिच्चकालं अंचेमि, वंदामि, पूजेमि, णमंसामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगईगमणं समाहिमरणं जिणगुणसंपत्ती होउ मज्झं । . सर्वातिचारविशुद्धयर्थं आलोचनाचारित्रभक्तिकायोत्सर्ग करोम्यहं
(इत्युच्चार्य "णमो अरहंताणं" इत्यादि दंडकं पठित्वा कायमुत्सृज्य "थोरसामि” इत्यादि दण्डकमधोत्य “येनेन्द्रान्” इत्यादि चारित्रभक्ति सालोचनां पठेत्--)
येनेन्द्रान्भुवनत्रयस्य विलसत्केयूरहारांगदान भास्वन्मौलिमणिप्रभाप्रविसरोत्तुंगोत्तमामानतान् । स्वेषां पादपयोरुहेषु मुनयश्चक्रुः प्रकामं सदा वन्दे पंचतयं तमद्य निगदनाचारमभ्यर्चितस् ॥ १॥ अर्थव्यंजनतद्वयाविकलताकालोपधाप्रश्रयाः स्वाचार्याधनपदवो बहुमतिश्चेत्यष्टधा व्याहृतम् । श्रीमज्ज्ञातिकुलेन्दुना भगवता तीर्थस्य कर्ताऽजसा ज्ञानाचारमहं त्रिधा प्रणिपताम्युद्धतये कर्मणाम् ।। २ ।।
For Private And Personal Use Only