SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नैमित्तिकक्रिया प्रयोगविधिः । कमंडलु बामहस्तेन उद्धृत्य ॐ रामो अरहंताणं रत्नत्रयपवित्री - करणांगाय बाह्याभ्यन्तरमलशुद्धाय नमः भो अन्तेवासिन् ! इदं शौचोपकरणं गृहाण गृहाणेति । ततश्च समाधिभक्तिं पठेत् । ततो नवदीक्षितो मुनिर्गुरुभक्त्या गुरु ं प्रणम्य अन्यान् मुनीन् प्रणम्योपविशति यावतारोपणं न भवति तावदन्ये मुनयः प्रतिवन्दनां न ददति, ततो दातृप्रमुखा जना उत्तमफलानि निधाय तस्मै नमोऽस्त्विति प्रणामं कुर्वन्ति । ततस्तत्पदो द्वितीयपक्षे वा सुमुहूर्त्ते व्रतारोपणं कुर्यात् । तदा रत्नत्रय - पूजां विधाय पाक्षिकप्रतिक्रमणपाठः पठनीयः । तत्र पाक्षिकनियमग्रह - णसमयात् पूर्वं यदा वदसमदीत्यादि पठ्यते तदा पूर्ववद्वतादि दद्यात् । नियमग्रहणसमये यथायोग्यं एकं तपो दद्यात् (पल्यविधानादिकं) । दातृप्रभृतिश्रावकेभ्योऽपि एकं एकं तपो दद्यात् । ततोऽन्ये मुनयः प्रतिवन्दनां ददति । अथ मुखशुद्धिमुक्त करणे विधिः त्रयोदशसु पंचसु त्रिषु वा कचोलिकासु लवंग - एला-पूगीफलादिकं निक्षिप्य ताः कञ्चोलिकाः गुरोर स्थापयेत् । ' मुखशुद्धिमुक्तकरणपाठ क्रियायामित्याद्युच्चार्य सिद्ध-योगि-याचार्य शान्ति समाधिभक्तीर्विधाय ततः पश्चान्मुखशुद्धिं गृह्णीयात् । इति महाव्रतदीक्षाविधिः । --- For Private And Personal Use Only ३३७ तुल्लक दीक्षाविधिः । अथ लघुदीक्षायां सिद्ध-योगि-शान्ति-समाधिभक्तीः पठेत् । "ॐ ह्रीं श्रीं क्लीं ऐं नमः " अनेन मंत्रेण जाप्यं वार २१ अथवा १०८ दीयते । अन्यच्च विस्तारेण लघुदीक्षाविधिः अथ लघुदीक्षानेतृजनः पुरुषः स्त्री वा दाता संस्थापयति । यथायोग्यमलंकृतं कृत्वा चैत्यालये समानयेत् देवं वंदित्वा सर्वैः सह ४३
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy